Friday, October 3, 2014

Kenopanishad with Anvaya and Translation.

Kenopanishad with Anvaya and Translation.


First Chapter.

Disciple's Question-- What is the Truth Behind the Senses?

 केनेषितं पतति प्रेषितं मनः
केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति
चक्षुः श्रोत्रं क उ देवो युनक्ति ॥१॥ 

[केन इषितं (सत्), प्रेषितं वा (सत्) मनः पतति?
केन युक्तः (सन्) प्रथमः प्राणः प्रैति?
(जनाः) केन इषिताम् इमां वाचं वदन्ति?
क उ देवः चक्षुः, श्रोत्रं (च​) युनक्ति?॥१॥] 

Either willed or directed by whom the mind falls (i.e. feels and conceives) ? Willed by whom does the organ of speech speak the words (that I am speaking)? Which God joins the eye as well as the ear with their object (of perception) ?||1||

Guru's Reply- Atma is the consciousness that Illumines the senses.

 श्रोत्रस्य श्रोत्रं मनसो मनो यद्
वाचो ह वाचं स उ प्राणस्य प्राणः
चक्षुषश्चक्षुरतिमुच्य धीराः
प्रेत्यास्माल्लोकादमृता भवन्ति ॥२॥ 

[(यस्मात् तत्) श्रोत्रस्य श्रोत्रं, मनसः (च​) मनः,
यत् (=यस्मात्, तत्) वाचो ह वाचं (=वाक्),
(यस्मात्) स उ प्राणस्य प्राणः,
(यस्मात्) तत् चक्षुषः चक्षुः,
(तस्मात्) धीराः (तत् ज्ञात्वा) अतिमुच्य​,
अस्मात् लोकात् (च​) प्रेत्य अमृताः भवन्ति॥] 

This is 'the Ear' of the ear, 'the Mind' of the mind, 'the Speech' of the speech, that indeed is 'the Prāṇa' of the prāṇa, and 'the Eye' of the eye. This being the case, the wise men leaving out the misunderstanding and departing from this world become immortal.||2||

Brahman is not Objectifiable with Mind and the senses
 न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥३॥ 

[तत्र चक्षुः न गच्छति, वाग् न गच्छति, न उ मनः गच्छति। (अतः, तत् ईदृशमिति वयं) न विद्मः। न (च​) विजानीमः यथा (कश्चन​) एतत् (शिष्याय​) अनुशिष्यात्॥] 

Neither the eye goes to see it, nor the speech goes to express it, nor the mind goes to conceive it. We ourselves do not know it, nor do we know how to instruct about it to others.||3||

The Brahman can be communicated Only by Āgama.
 अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥४॥ 

[‘तत् विदितात् अन्यत्, अथ उ अविदितात् अधि’- इति पूर्वेषां (वचनं) (वयं) शुश्रुमः, ये तद् (ब्रह्म​) नः व्याचचक्षिरे॥
अथवा
ये तद् (ब्रह्म​) नः व्याचचक्षिरे, (तेषां) पूर्वेषां (वचनं-) ‘तत् विदितात् अन्यत्, अथ उ अविदितात् अधि’ - इति (वयं) शुश्रुमः॥] 

'It is quite other than the known and even beyond the unknown' -- So have we heard from the ancients who have explained it to us.||4||

What is Meditated upon as 'This' -- is not Brahman.

यद् वाचाऽनभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥५॥ 

[यद् वाचा अनभ्युदितं, येन (एव) वाग् अभ्युद्यते, तदेव ब्रह्म (इति) त्वं विद्धि; यद् ‘इदम्’ (इति जनाः) उपासते, (तद्) इदं न (ब्रह्म​)॥]

That which is not expressed by words, that by which the organ of speech itself is objectified, know that alone to be Brahman, not that which is meditated upon as 'this'.||5||

यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥६॥

[(लोकः) यत् मनसा न मनुते, येन (एव​) मनः मतं (इति ब्रह्मविदः) आहुः, तदेव ब्रह्म (इति) त्वं विद्धि, यद् इदम् (इति जनाः) उपासते, (तद्) इदं न (ब्रह्म​) ॥]

That which one cannot think of with the mind by which, they say, the mind itself is objectified, know that alone to be Brahman, not that which they meditate upon as 'this'. ||6||

यच्चक्षुषा न पश्यति येन चक्षूग्ंषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥७॥

[लोकः यत् चक्षुषा न पश्यति, येन चक्षूंषि पश्यति, तदेव (ब्रह्म​) इति त्वं विद्धि; यद् ‘इदम्’ (इति जनाः) उपासते, (तद्) इदं न (ब्रह्म​) [इति विद्धि]॥]

That which one cannot see with the organ of sight, but that which objectifies (all) sensations of sight, know that alone to be Brahman and not that which they meditate as 'this'.||7||

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदग्ं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥८॥

[(लोकः) यत् श्रोत्रेण न शृणोति,
येन इदं श्रोत्रं श्रुतम्;
तदेव ब्रह्म (इति) त्वं विद्धि,
यद् ‘इदम्’ (इति जनाः) उपासते
(तद्) ‘इदम्’ (इति जनाः) उपासते (तद्) ‘इदम्’ न ब्रह्म​॥]

That which one cannot hear with the organ of hearing,
but that by which that organ of hearing is objectified, know that alone to be Brahman
and not that which they meditate upon as 'this'.||8||

यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥९॥

[(लोकः) प्राणेन (=घ्राणेन​) यत् न प्राणिति (=जिघ्रति) येन (एव​) प्राणः​(=घ्राणं) प्रणीयते (=विषयी क्रियते) तदेव ब्रह्म (इति) त्वं विद्धि, यद् ‘इदम्’ (इति जनाः) उपासते, (तद्) ‘इदं’ न (ब्रह्म​)॥]

That which one cannot smell with the organ of smell,
but that by which the objectified,
know that alone to be Brahman and not that which they meditate upon as 'this'.||9||

Thus ends the First Chapter.


Second Chapter.

यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं
त्वं वेत्थ ब्रह्मणो रूपम् । यदस्य त्वं
यदस्य देवेष्वथ नु मीमांस्यमेव ते
मन्ये विदितम् ॥१॥

[(गुरुः-) यदि ‘(अहं ब्रह्म​) सुवेद​’ - इति मन्यसे (तर्हि) यद् अस्य ब्रह्मणो रूपं त्वम् (आत्मनि) वेत्थ​, यत् (च​) अस्य (रूपं) देवेषु (वेत्थ​) तद् नूनं दभ्रमेवापि त्वं वेत्थ​॥ अथ नु मीमांस्यम् एव ते (ब्रह्म​)।
(शिष्यः)- मन्ये विदितम्॥]

If you think 'I know this (Brahman) very well (as an object),
(then) you know very little of the nature of the Brahman such as that it is in person as well as that it is in the gods.
Hence, I feel what you know (still needs) to be (further) enquired in to.
(Disciple)- Now I consider I know it.||1||

*****************

Second meaning:

If you consider, 'I know well, (one) form of Brahman who is in myself and another form (of him) in the gods (then) you know, in fact, very little of Him.
Hence, your Brahman needs to be enquired further.
(Disciple):- Now, I feel I know Brahman.

*****************

नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥२॥ 

[‘(अहं ब्रह्म​) सुवेद​’ - इति अहं न मन्ये।
‘न वेद​’- इति (अपि) न मन्ये।
(अतः अहं) वेद​, (न वेद​) च​।
‘नो न वेद​, वेद च​’ - इति तद् यः नः(-.अस्मासु) वेद​, तद् वेद्॥] 

I neither think 'I know it very well' as an object
nor do I consider'I do not know it'.
Thus, I intuit it.
A person who among us intuits such as -- "I don't think - I know it but I know it" he (alone) knows it.||2||

यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥३॥ 

[यस्य (ब्रह्म​) अमतं, तस्य तद् मतम्
यस्य (तु) मतं (भवति), स (तद्) न वेद​।
यस्मात्, विजानताम् अविज्ञातं, अविजानतां विज्ञातम्॥]

A person who does not know it (as object) knows it
A person, who knows it (as an object) does not know it.
It is unknown to those who know it (as an object).
and known to those who know it not so.||3||

Then how to know Brahman?
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते ते वीर्यं विद्यया विन्दतेऽमृतम् ॥४॥

[ब्रह्म (यदा) प्रतिबोधविदितं
(तदा तत् सम्यग्) मतम्।
(यतो) हि (तेन) अमृतत्वं विन्दते।
आत्मना वीर्यं विन्दते, विद्यया अमृतं विन्दते॥]

When it is intuited in each experience or knowledge, it is (rightly) understood. Because, he (then) attains verily the immortality. Through Atman one attains vigour and through knowledge immortality.||4||

इह चेदवेदीदथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः
प्रेत्यास्माँल्लोकादमृता भवन्ति ॥५॥

[इह (एव​) चेत् (कश्चन​) (आत्मानम्) अवेदीत्
अथ (तस्य​) (जीवनं) सत्यम् (-.चरितार्थं) अस्ति।
इह (एव​) (सः) न अवेदीत् चेत् (तदा) (तस्य​) महती विनष्टिः।
(अतः) धीराः भूतेषु भूतेषु ब्रह्म विचित्य (-.विज्ञाय​) अस्मात् लोकात् प्रेत्य अमृताः भवन्ति॥]

Brahman should be understood right here.
If a person intuites him right here (before death)
his life is truely lived;
If he did not intuit here there is a great loss indeed.
Therefore, the wise men intuiting ( the Brahman) in and through all the beings (living and non-living) transcend this world and become immortal.||5||

Thus ends the Second Chapter.

Third Chapter

Gods developed a false Pride.

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ।
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥१॥ 

[ब्रह्म ह देवेभ्यो विजिग्ये।
तस्य ह ब्रह्मणो विजये देवा अमहीयन्त​।
त ऐक्षन्त​- ‘अकस्माकमेवायं विजयः, अस्माकमेवायं महिमे’ति॥]

The Brahman gained a victory (on behalf of the gods
(in a war against demons),
The gods became glorious in the wake of the victory of Brahman.
(And) they observed (wrongly)
This is only our victory, and verily our own glory.||1||

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव
तन्न व्यजानत किमिदं यक्षमिति ॥२॥

[तद् (ब्रह्म​) एषां (देवानाम् अभिमानं) विजज्ञौ।
तेभ्यो ह (तद् ब्रह्म​) प्रादुर्बभूव​।
(देवाः) तत् न व्यजानन्त​, ‘किमिदं यक्षम्’-इति॥]

He (the Brahman) understood (the false pride) of these (gods),
and appeared in front of them (at a distance).
They could not understand him and
wondered, 'who is this Yaksha, an Adorable Gaint?'||2||

Pride of Agni Shattered (3-6)

तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि
किमेतद् यक्षमिति तथेति ॥३॥ 

[ते (अन्ये देवाः) अस्मिन् (एवं) अब्रुवन् जातवेद​! (त्वं) एतद् विजानीहि, किमेतद् यक्षम्- इति। ]

They (the gods) requested Agni (Fire) Oh All-knower! Will you please find out who is this Yaksha (shining Gaint) is?
He (the Fire) said, 'All right' and proceeded towards Him (but remained silent).||3||

तदभ्यद्रवत् तमभ्यवदत् कोऽसीत्यग्निर्वा
अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥४॥ 

[‘तथा’ इति (उक्त्वा अग्निः) तद् (यक्षम्) अभ्यद्रवत्।
तम् (अग्निम्) (यक्षम्) अभ्यवदत्, ‘कोऽसि’? इति।
‘अग्निर् वै अहमस्मि’ इति अब्रवीत्।
जातवेदा वै अहमस्मि’- इति॥] 

He (the Yaksha) asked (him), 'Who are you'? He (Agni) replied, 'I am the one who is Fire, It is me who is All-knowing'.||4||

तस्मिग्ंस्त्वयि किं वीर्यमित्यपीदग्ं
सर्वं दहेयं यदिदं पृथिव्यामिति ॥५॥ 

[(पुनः यक्षमपृच्छत्), ‘तस्मिन् त्वयि किं वीर्यम्’? इति।
(अग्निः प्रत्यवदत्)- ‘यद् इदं पृथिव्याम् (अस्ति), तद् इदं सर्वम् अपि अहं दहेयम्’ इति॥]

He (the Yaksha) asked (him again)- 'If you are such, what are you capable of'?
(Agni replied-) I can burn out all that which is on this earth.||5||

तस्मैतृणं निदधावेतद्दहेति
तदुपप्रेयाय सर्वजवेन
तन्न शशाक दग्धुं स तत एव निववृते
नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥६॥

[(यक्षम्) तस्मै तृणं निदधौ, (अवदत् च​), ‘एतद् दह​’ इति। (अग्निः) तत् (तृणं) सर्वजवेन उपप्रेयाय​। (किन्तु) तत् दग्धुं न शशाक​।
(तदा) स (अग्निः), ‘यदेतत् यक्षम्’ इति एतद् विज्ञातुं न अशकम् (इति मत्वा) तत एव निववृते॥]

He (the Yaksha) placed a blade of grass in front of him and said, 'Burn this'.
He (Fire) approached it with all his force but he could not burn it.
(And) he only returned from him quietly (thinking), 'I could not find out who the Yaksha was'.||6||

The Pride of Vayu was Shattered(7-10)

अथ वायुमब्रुवन् वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥७॥

[ते (अन्ये देवाः) वायुम् (एवम्) अब्रुवन्-
वायो! एतद् विजानीहि किमेतद् यक्षम्- इति।]

Then they (the gods) requested Vayu (like this), 'Oh Wind! Will you please find out who this Yaksha (the Shining Superman) is?
He replied, 'All right'||7||.

तदभ्यद्रवत् तमभ्यवदत् कोऽसीति वायुर्वा
अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥८॥

[‘तथा’ (इति उक्त्वा) वायुः तद् (यक्षम्) अभ्यद्रवत्।
तं (वायुम्) (यक्षम्) अभ्यवदत्- ‘कोऽसि’? इति
‘वायुर् वै अहम् अस्मि’- इति अब्रवीत् मातरिश्वा वै अहम् अस्मि- इति (च)]

And he proceeded towards Him.
(Then) the oher asked him, 'who are you'?
The Wind replied, 'I am the one who is the wind; It is me who moves all over the ether'.||8||

तस्मिग्ंस्त्वयि किं वीर्यमित्यपीदग्ं
सर्वमाददीय यदिदं पृथिव्यामिति ॥९॥

[(पुनः यक्षम् वायुम् एवम् अपृच्छत्)-
‘तस्मिन् त्वयि किं वीर्यम्’? इति।
(वायुः प्रत्यवदत्-)
‘यद् इदं पृथिव्याम् (अस्ति) तद् इदं सर्वम् अपि आददीय​’ इति।]

The Yaksha asked (again), 'If you are such what are you capable of
Vāyu replied, 'I take away, all this which is on the earth'.||9||

तस्मैतृणं निदधावेतदादत्स्वेति तदुपप्रेयाय
सर्वजवेन तन्न शशाकादातुं स तत एव
निववृते नैतदशकं विज्ञातुं यदेतद् यक्षमिति ॥१०॥

[(यक्षम्) तस्मै (वायवे) तृणं निदधौ,
(अवदत् च​), ‘एतद् दह​’ इति।
(वायुः) तत् (तृणं) सर्वजवेन उपप्रेयाय​।
(किन्तु) तद् आदातुं न शशाक​।
(तदा) स वायुः ‘यद् एतत् यक्षम्’ इति- एतद् विज्ञातुं न अशकम् (इति मत्वा) तत एव निववृते॥]

He placed a blade of grass in front of him, and said, Take this play.
He (the wind) approached it with all his force, but failed to pick it up.
With this he returned, saying, 'I could not find out who this Yaksha, (the Shining Superman) was'.||10||

अथेन्द्रमब्रुवन् मघवन्नेतद्विजानीहि
किमेतद्यक्षमिति तथेति । तदभ्यद्रवत् तस्मात् तिरोदधे ॥११॥

[अथ (देवाः) इन्द्रम् (एवम्) अब्रुवन्- ‘मघवन्! एतद् विजानीहि, किमेतद् यक्षम्-इति।
‘तथा’ इति (उक्त्वा) इन्द्रः तद् (यक्षम्) अभ्यद्रवत् तस्मात् (स्थानात्) तत् (यक्षम्) निरोदधे॥] 

Then the gods requested Indra (like this)- Oh, the powerfull One! will you please find out, who this Yaksha (the Shining Superman) is?
He (Indra) saying, 'all right', approached Him.
(As soon as he reached), the Yaksha vanished from that place.||11||

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाग्ं हैमवतीं ताग्ं होवाच किमेतद्यक्षमिति ॥१२॥

[स (इन्द्रः) तस्मिन् एव आकाशे (-.स्थाने) (तस्थौ)।
(तत्र एका) स्त्रियं (-.स्त्री) आजगाम​।
बहुशोभमानाम् उमां हैमवतीं तां (इन्द्रः) ह (एवम्) उवाच​- ‘किमेतद् यक्षम्’? इति॥] 

He stood in the place (for a while)
Then a woman appeared there.
He asked her the highly beautiful Uma, the daughter of Himalaya 'who was this Yaksha'?||12||

Thus ends Third Chapter

Fourth Chapter

Uma's teaching to Indra

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये
महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥१॥

[सा ‘ब्रह्मे’ति होवाच​;
‘ब्रह्मणो वा एतद् विजये महीयध्वम्’ - इति।
ततो हैव विदाञ्चकार ब्रह्मेति॥] 

She said, 'It is Brahman, and you have become glorious only in the victory of Brahman.
Thus, he understood Brahman (as the source of their victory and everything of them)||1||

Superiority of Indra, Vāyu and Agni

तस्माद्वा एते देवा अतितरामिवान्यान् देवान्
यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पृशुस्ते
ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥२॥

[त​स्माद् वै यद् अग्निः, वायुः, इन्द्रः एते देवाः अतितराम् इव अन्यान् देवान्।
(यस्मात्) ते हि एतत् (ब्रह्म​) नेदिष्ठं पस्पर्शुः।
ते हि ‘एनत् ब्रह्म​’ इति प्रथमः विदाञ्चकार​॥] 

That is why, these three gods ---Indra, Vāyu and Agni are superior to others;
Because, they touched this ('Brahman') from the nearest;
and it was they who knew first of all that this was Brahman.||2||

तस्माद्वा इन्द्रोऽतितरामिवान्यान् देवान्
स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥३॥

For the same reason, indeed, Indra is
superior to the other two,
because he touched this (Brahman) most closely
and he was the first of all to know this to be Brahman.||3||

Teaching the Limited Brahman as to be Meditated as the 'Adorable'. (4-5)
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३
इतीन्न्यमीमिषदा३ इत्यधिदैवतम् ॥४॥

[तस्यैष आदेशः--
यदेतत् विद्युतो व्यद्युतत् ‘आ३’ इति
इन्न्यमीमिषद् ‘आ३’ इति।
इत्यधिदैवतम् ]

Here is a simile for this-
It flashes like lightening
Moreover, It is like the winking of an eye. Thus is about the cosmic aspect.||4||

अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन
चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥५॥

[अथ​- अध्यात्मम् (उपमानम्) (इदम्) यत् मनः एतद् (ब्रह्म​) गच्छति इव​।
(यत्) च अनेन (एवं गच्छता मनसा) एतद् (ब्रह्म​) अभीक्ष्णम् उप​-स्मरति, (यत् च​) (तद्विषयकः एव​) सङ्कल्पः (भवति)॥ ]

Now (the teaching of) the same in its personal aspect-
The mind is trying to touch or perceive Brahman, as it were;
With such a mind one remembers Him intimately and repeatedly.
Even the ascertainment of the mind is about Him.||5||

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं
स य एतदेवं वेदाभिहैनग्ं सर्वाणि भूतानि संवाञ्छन्ति ॥६॥

[तद् ह (ब्रह्म​) ‘तद्वनं’-नाम (तद्) ‘तद्वनम्’ इति उपासितव्यम्।
स यः एतद् (ब्रह्म​) एवं वेद​, (तम्) एनं ह सर्वाणि भूतानि अभिसंवाञ्छन्ति॥ ]

He is called Tadvanam (the most Adorable).
One should meditate upon it as such.
A person who meditates upon it thus, Him all the beings adore.||6||

Conclusion of the Upanishad.

उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्
ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥७॥

[शिष्यः- भो (गुरो), उपनिषदं (मे) ब्रूहि।
गुरुः- (मया) ते उपनिषद् उक्ता।
ब्राह्मीम् उपनिषदम् वाव ते अब्रूम इति॥]

(Disciple:-) Please (continue to) teach me the Upanishad, Sir.
(Guru:-) You have been told the Upanishad. We have indeed told you the Upanishad (the secret knowledge) of Brahman (completely).||7||

The Auxiliary means for knowledge

तस्यै तपो दमः कर्मेति प्रतिष्ठा
वेदाः सर्वाङ्गानि सत्यमायतनम् ॥८॥

[तस्यै (ब्रह्मविद्यायै) तपः, दमः, कर्म इति (आदीनि) प्रतिष्ठा (भवन्ति)
(तथैव​) वेदाः, सर्वाङ्गानि (च) सत्यं (तस्याः) आयतनं (भवति)॥ ]

Of this Wisdom, concentration, self-control, and (Vedic) duties -- are the foot-hold;
So are the Vedas and their subsidiary branches of learning. Speaking the truth is its abode.||8||

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते
स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥९॥

[यो एतामेवं वेद​, अपहत्य पाप्मनं अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति, प्रतितिष्ठति॥ ]

Whoever knows this wisdom thus, (he) destroys (all his) sins he establishes himself in the infinite and the greater heavenly world (i.e. Brahman).
He (indeed) rests there.

Thus ends the fourth Chapter

Here ends the Kenopanishad.